(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.161. अध्यायः 161
Mahabharata - Drona Parva - Chapter Topics
द्रौणिधृष्टद्युम्नयोर्युद्धम्। द्रौणिपराक्रमः॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-161-0x(4705)(52314)
दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः।
चकारारिवधे यत्नमिन्द्रो दैत्यवधे यथा।
प्रत्युवाच महाबाहुस्तव पुत्रमिदं वचः॥ 7-161-1(52315)
सत्यमेतन्महाबाहो यथा वदसि कौरव।
प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे॥ 7-161-2(52316)
तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह।
शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत्॥ 7-161-3(52317)
अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च।
निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम॥ 7-161-4(52318)
ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह।
क्षपयेयुर्महाबाहो न स्याम यदि संयुगे॥ 7-161-5(52319)
युध्याम पाण्डवाच्छक्त्या ते चाप्यस्मान्यथाबलम्।
तेजस्तेजः समासाद्य प्रशमं यातु भारत॥ 7-161-6(52320)
अशक्त्या तरसा जेतुं पाण्डवानामनीकिनी।
जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते॥ 7-161-7(52321)
आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः।
किमर्थं तव सैन्यानि न हनिष्यन्ति भारत॥ 7-161-8(52322)
त्वं तु लुब्धतमो राजन्निकृतिज्ञश्च कौरव।
सर्वाभिशङ्की मानी च ततोऽस्मानभिशङ्कसे॥ 7-161-9(52323)
मन्ये त्वं कुत्सितो राजन्पापात्मा पापपूरुषः।
अन्यानपि स नः क्षुद्र शङ्कसे पापभावितः॥ 7-161-10(52324)
अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः।
एष गच्छामि सङ्ग्रामं त्वत्कृते कुरुनन्दन।
योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान्॥ 7-161-11(52325)
पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा।
पाण्डवेयैश्च सङ्ग्रामे त्वत्प्रियार्थमरिन्दम॥ 7-161-12(52326)
अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा।
सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वशः॥ 7-161-13(52327)
अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम्।
अश्वत्थाममयं लोकं मंस्यते सह सोमकैः॥ 7-161-14(52328)
आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः।
दृष्ट्वा विनिहतान्सङ्ख्ये पाञ्चालान्सोमकैः सह॥ 7-161-15(52329)
ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत।
न हि ते वीर मोक्ष्यन्ते मद्बाह्वन्तरमागताः॥ 7-161-16(52330)
एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव।
अभ्यवर्तत युद्धाय त्रासयन्सर्वधन्विनः।
चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः॥ 7-161-17(52331)
ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः॥ 7-161-18(52332)
प्रहरध्वमितः सर्वे मम गात्रे महारथाः।
स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम्॥ 7-161-19(52333)
एवमुक्तास्तु ते सर्वे शस्त्रवृषीरपातयन्।
द्रौणिं प्रति महाराज जलं जलधरा इव॥ 7-161-20(52334)
तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत्।
प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य च प्रभो॥ 7-161-21(52335)
ते हन्यमानाः समरे पाञ्चालाः सोमकास्तथा।
परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश॥ 7-161-22(52336)
तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान्।
धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्रणे॥ 7-161-23(52337)
ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम्।
वृतः शतेन शूराणां रथानामनिवर्तिनाम्॥ 7-161-24(52338)
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः।
द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान्॥ 7-161-25(52339)
आचार्यपुत्र भद्रं ते किमन्यैर्निहतैस्तव।
समागच्छ मया सार्धं यदि शूरोऽसि संयुगे।
अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः॥ 7-161-26(52340)
ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान्।
मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ॥ 7-161-27(52341)
ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः।
रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः।
मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम्॥ 7-161-28(52342)
सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः।
मानी द्रौणिरसम्भ्रान्तो बाणपाणिरभाषत॥ 7-161-29(52343)
धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय।
यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम्॥ 7-161-30(52344)
द्रौणिरेवमथाभाष्य पार्षतं परवीरहा।
छादयामास बाणौघैः समन्ताल्लुघुहस्तवत्॥ 7-161-31(52345)
स बाध्यमानः समरे द्रौणिना युद्धदुर्मदः।
द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा॥ 7-161-32(52346)
न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च।
द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते॥ 7-161-33(52347)
ततस्त्वाऽहं न हन्म्यद्य द्रोणे जीवति संयुगे॥ 7-161-34(52348)
इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते।
निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे।
नेष्यामि प्रेतलोकाय ह्येतन्मे मनसि स्थितम्॥ 7-161-35(52349)
यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च।
तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे॥ 7-161-36(52350)
यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः।
स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधमः॥ 7-161-37(52351)
इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः।
क्रोधमाहारयत्तीव्रं तिष्ठतिष्ठेति चाब्रवीत्॥ 7-161-38(52352)
निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत।
छादयामास च शरैर्निःश्वसन्पन्नगो यथा॥ 7-161-39(52353)
स च्छाद्यमानः समरे द्रौणिना राजसत्तम।
सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः॥ 7-161-40(52354)
नाकम्पत महाबाहुः स्ववीर्यं समुपाश्रितः।
सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह॥ 7-161-41(52355)
तौ पुनः सन्न्यवर्तेतां प्राणद्यूतपणे रणे।
निपीडयन्तौ बाणौघैः परस्परममर्षिणौ।
उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः॥ 7-161-42(52356)
द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम्।
दृष्ट्वा सम्पूजयामासुः सिद्धचारणवादिकाः॥ 7-161-43(52357)
शरौघैः पूरयन्तौ तावाकाशं च दिशस्तथा।
अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः॥ 7-161-44(52358)
नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ।
परस्परवधे यत्तौ सर्वभूतभयङ्करौ॥ 7-161-45(52359)
अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च।
सम्पूज्यमानौ समरे योधमुख्यैः सहस्रशः॥ 7-161-46(52360)
तौ प्रबुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव।
उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत॥ 7-161-47(52361)
सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च सैनिकाः।
वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः॥ 7-161-48(52362)
तस्मिंस्तु तुमुले युद्धे भीरुणां भयवर्धने।
मुहूर्तमपि तद्युद्धं समरूपं तदाऽभवत्॥ 7-161-49(52363)
ततो द्रौणिर्महाराज पार्षतस्य महात्मनः।
ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी।
सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे॥ 7-161-50(52364)
पाञ्चालांश्चैव तान्सर्वान्बाणैः सन्नतपर्वभिः।
व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः॥ 7-161-51(52365)
ततस्तु विव्यथे सेना पाण्डवी भरतर्षभ।
दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे॥ 7-161-52(52366)
शतेन च शतं हत्वा पाञ्चालानां महारथः।
त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान्॥ 7-161-53(52367)
द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः।
नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः॥ 7-161-54(52368)
ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः।
अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः॥ 7-161-55(52369)
स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः।
ननाद सुमहानादं तपान्ते जलदो यथा॥ 7-161-56(52370)
स निहत्य बहूञ्छूरानश्वत्थामा व्यरोचत।
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः॥ 7-161-57(52371)
सम्पूज्यमानो युधि कौरवेयै--
र्निर्जित्य सङ्ख्येऽरिगणान्सहस्रशः।
व्यरोचत द्रोणसुतः प्रतापवा--
न्यथा सुरेन्द्रोऽरिगणान्निहत्य वै॥ ॥ 7-161-58(52372)

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे एकषष्ट्यधिकशततमोऽध्यायः॥ 161 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-161-9 निकृतिर्वञ्चनम्॥ 5-161-43 वादिकाः वन्दिनः॥ 5-161-161 एकषष्ट्यधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.